|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.84. अध्यायः 084
Mahabharata - Sabha Parva - Chapter Topics
शकुनियुधिष्ठिरयोः संवादः॥ 1॥ द्यूतनिर्धारणम्॥2॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच॥
प्रविश्य तां सभां पार्था युधिष्ठिरपुरोगमाः।
समेत्य पार्थिवान्सर्वान्पूजार्हानभिपूज्य च॥ 2-84-1(14699)
यथावयः समेयाना उपविष्टा यथार्हतः।
आसनेषु विचित्रेषु स्पर्द्ध्यास्तरणवत्सु च॥ 2-84-2(14700)
तेषु तत्रोपविष्टेषु सर्वेष्वथ नृपेषु च।
शकुनिः सौबलस्तत्र युधिष्ठिरमभाषत॥ 2-84-3(14701)
शकुनिरुवाच॥ 2-84-4x(1552)
उपस्तीर्णा सभा राजन्सर्वे त्वयि कृतक्षणाः।
अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर॥ 2-84-4(14702)
युधिष्ठिर उवाच। 2-84-5x(1553)
नितिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः।
न च नीतिर्ध्रुवा राजन्किं त्वं द्यूतं प्रशंससि॥ 2-84-5(14703)
न हि मानं प्रशंसन्ति निकृतौ कितवस्य हि।
शकुने मैवं नोऽजैषीरमार्गेण नृशंसवत्॥ 2-84-6(14704)
शकुनिरुवाच। 2-84-7x(1554)
यो वेत्ति सङ्ख्या निकृतौ विधिज्ञ-
श्चेष्टास्वखिन्नः कितवोऽक्षजासु।
महामतिर्यश्च जानाति द्यूतं
स वै सर्वं सहते प्रक्रियासु॥ 2-84-7(14705)
अक्षग्लहः सोऽभिभवेत्परं न-
स्तेनैव दोषो भवतीह पार्थ।
दीव्यामहे पार्थिव मा विशङ्कां
कुरुष्व पाणं च चिरं च मा कृथाः॥ 2-84-8(14706)
युधिष्ठिर उवाच। 2-84-9x(1555)
एवमाहायमसितो देवलो मुनिसत्तमः।
इमानि लोकद्वाराणि यो वै भ्राम्यति सर्वदा॥ 2-84-9(14707)
इदं वै देवनं पापं निकृत्या कितवैः सह।
धर्मेण तु जयो युद्धे तत्परं न तु देवनम्॥ 2-84-10(14708)
नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत।
अजिह्यमशठं युद्धमेतत्सत्पुरुषव्रतम्॥ 2-84-11(14709)
शक्तितो ब्राह्मणार्थाय शिक्षितुं प्रयतामहे।
तद्वै वित्तं मातिदेवीर्माजैषीः शकुने परान्॥ 2-84-12(14710)
निकृत्या कामये नाहं सुखान्युत धनानि वा।
कितवस्येह कृतिनो वृत्तमेतन्न पूज्यते॥ 2-84-13(14711)
शकुनिरुवाच। 2-84-14x(1556)
श्रोत्रियः श्रोत्रियानेति निकृत्यैव युधिष्ठिर।
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः॥ 2-84-14(14712)
अक्षैर्हि शिक्षितोऽभ्येति निकृत्यैव युधिष्ठिर।
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः॥ 2-84-15(14713)
अकृतास्त्रं कृतास्रश्च दुर्बलं बलवत्तरः।
एवं कर्मसु सर्वेषु निकृत्यैव युधिष्ठिरः।
विद्वानविदुषोभ्येति नाहुस्तां निकृतिं जनाः॥ 2-84-16(14714)
एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे।
देवनाद्विनिवर्तस्व यदि ते विद्यते भयम्॥ 2-84-17(14715)
युधिष्ठिर उवाच॥ 2-84-18x(1557)
आहूतो न निवर्तेयमिति मे व्रतमाहितम्।
विधिश्च बलवान्राजन्दिष्टस्यास्मि वशे स्थितः॥ 2-84-18(14716)
अस्मिन्समागमे केन देवनं मे भविष्यति।
प्रतिपाणश्च कोऽन्योस्ति ततो द्यूतं प्रवर्तताम्॥ 2-84-19(14717)
दुर्योधन उवाच। 2-84-20x(1558)
अहं दातास्मि रत्नानां धनानां च विशाम्पते।
मदर्थे देविता चायं शकुनिर्मातुलो मम॥ 2-84-20(14718)
युधिष्ठिर उवाच॥ 2-84-21x(1559)
अन्येनान्यस्य वै द्यूतं विषमं प्रतिभाति मे।
एतद्विद्विन्नुपादत्स्व काममेवं प्रवर्ततम्॥ ॥ 2-84-21(14719)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि चतुरशीतितमोऽध्यायः॥84 ॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-84-5 पापं पापहेतुः॥ 2-84-8 पाणं पणनीयद्रव्यम्॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|